सा च तद्वचनं श्रुत्वा समारुष्टा शशाप तम्
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः
गोप्यश्च रुरुदुः सर्वा गोपाश्चेति सुदुःखिताः
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम्
गोलोकस्य क्षणार्द्धेन चैकमन्वन्तरं भवेत् 2.16.
स एव शंखचूडश्च पुनस्तत्रैव यास्यति
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम्
ममैव कवचं कण्ठे सर्वमङ्गलमङ्गलम्
तत्र ब्रह्मन्स्थिते कण्ठे न कोऽपि हिंसितुं क्षमः
सतीत्वभङ्गस्तत्पत्न्या यत्र काले भविष्यति
तत्पत्न्याश्चोदरे वीर्य्यमर्पयिष्यामि निश्चितम्
पश्चात्सा देहमुत्सृज्य भविष्यति प्रिया मम
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरं मुदा
नारायण उवाच जगाम स्वालयं तूर्णं यथास्थानं महामुने
चन्द्रभागानदीतीरे वटमूले मनोहरे
दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम्
स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम्
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्द्विगुणं मुने सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम्
ज्वलदग्निनिभैर्नित्यं शोभितं रत्नकोटिभिः
परितो वणिजां संघैर्नानावस्तुविराजितैः
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम्
सुदुर्गमं च शत्रूणामन्येषां सुगमं सुखम् 2.17.
राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः
मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः
रत्नचित्रकपाटाद्यैः सद्रत्नकलशान्वितैः
परितो रक्षितं शश्वद्दानवैः शतकोटिभिः
सुन्दरैश्च सुवेषैश्च नानालङ्कारभूषितैः
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम्
कथयामास वृत्तान्तं जगाम तदनुज्ञया