श्रीभगवानुवाच मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा
सुराः शृणुत तत्सर्वमितिहासं पुरातनम्
सुदामा नाम गोपश्च पार्षदप्रवरो मम
तत्रैकदाऽहमगमं स्वालयाद्रासमण्डलम्
सा मां विरजया सार्द्धं विज्ञाय किंकरीमुखात्
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् 2.16.
मां दृष्ट्वा मन्दिरे देवी सुदाम सहितं पुरा
तच् त्वा च सुमहांश्च सुदामा तां चुकोप ह
तच्छ्रुत्वा सा कोपयुक्ता रक्तपङ्कजलोचना
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोज्ज्वलम्
सा च तद्वचनं श्रुत्वा समारुष्टा शशाप तम्
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः
गोप्यश्च रुरुदुः सर्वा गोपाश्चेति सुदुःखिताः
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम्
गोलोकस्य क्षणार्द्धेन चैकमन्वन्तरं भवेत् 2.16.
स एव शंखचूडश्च पुनस्तत्रैव यास्यति
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम्
ममैव कवचं कण्ठे सर्वमङ्गलमङ्गलम्
तत्र ब्रह्मन्स्थिते कण्ठे न कोऽपि हिंसितुं क्षमः
सतीत्वभङ्गस्तत्पत्न्या यत्र काले भविष्यति
तत्पत्न्याश्चोदरे वीर्य्यमर्पयिष्यामि निश्चितम्
पश्चात्सा देहमुत्सृज्य भविष्यति प्रिया मम
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरं मुदा
नारायण उवाच जगाम स्वालयं तूर्णं यथास्थानं महामुने
चन्द्रभागानदीतीरे वटमूले मनोहरे
दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम्
स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम्
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्द्विगुणं मुने सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम्
ज्वलदग्निनिभैर्नित्यं शोभितं रत्नकोटिभिः
परितो वणिजां संघैर्नानावस्तुविराजितैः