एकमन्वन्तरं पूर्णं राजराजेश्वरो बली
गन्धर्वाणां किन्नराणां राक्षसानां च शास्तिदः
पूजाहोमादिकं तेषां जहार विषयं बलात्
निरुद्यमाः सुराः सर्वे चित्रपुत्तलिका यथा
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः
सर्वं संकथयामास विधाता चन्द्रशेखरम्
सुदुर्लभं परं धाम जरामृत्युहरं परम् 2.16.
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान्
वनमालान्वितान्सर्वान्श्यामसुन्दरविग्रहान्
सस्मितान्पद्मवक्त्रांश्च पद्मनेत्रान्मनोहरान्
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया
देवः सार्द्धं तानतीत्य प्रविवेश हरेः सभाम्
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः
मणीन्द्रसारनिर्माणां हीरासारसुशोभिताम्
माणिक्यमालाजालाढ्यां मुक्तापंक्तिविभूषिताम्
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः 2.16.
इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोरमाम्
पारिजातप्रसूनानां मालाजालैर्विराजिताम्
सुसंस्कृतां तु सर्वत्र वासिता गन्धवायुना
सहस्रयोजनायामां परिपूर्णां च किंकरैः
वसन्तं तन्मध्यदेशे यथेन्द्रं तारकावृतम्
किरीटिनं कुण्डलिनं वनमालाविभूषितम्
नवीननीरदश्यामं सुन्दरं सुमनोहरम्
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम्
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः 2.16.
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं विभुम्
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदाः
पुटाञ्जलियुतो भूत्वा विधाता जगतामपि
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित्