चुचुम्ब कठिने गण्डे बिम्बोष्ठे पुनरेव च तदाहृतां रत्नमालां त्रिषु लोकेषु विश्रुताम्
ददौ मञ्जीरयुग्मं च स्वाहायाश्च हृतं च यत्
अंगुलीयकरत्नानि रत्याश्च वरभूषणम्
विचित्रपीठकश्रेणीं शय्यां चापि सुदुर्लभाम्
निर्माय कबरीभारं तस्याश्च माल्यसंयुतम्
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ 2.16.
चित्रालक्तकरागं च नखरेषु ददौ मुदा
हे देवि तव दासोऽहमित्युच्चार्य्य पुनः पुनः
तपोवनं परित्यज्य राजास्थानान्तरं ययौ
स्थाने स्थानेऽतिरम्ये च पुष्पोद्यानेऽतिनिर्जने
पुष्पभद्रानदीतीरे नीरवातमनोहरे
मधौ मधुकराणां च मधुरध्वनिनादिते
देवोद्याने देववने चित्रे चन्दनकानने
कुन्दानां मालतीनां च कुमुदाम्भोजकानने
निर्जने काञ्चनीस्थाने धन्ये काञ्चनपर्वते
पुष्पचन्दनतल्पे च पुंस्कोकिलरुतश्रुते 2.16.
कामुक्या कामुकः कामात्स रेमे रामया सह
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः
रम्यं क्रीडालयं कृत्वा विजहार पुनस्ततः
एकमन्वन्तरं पूर्णं राजराजेश्वरो बली
गन्धर्वाणां किन्नराणां राक्षसानां च शास्तिदः
पूजाहोमादिकं तेषां जहार विषयं बलात्
निरुद्यमाः सुराः सर्वे चित्रपुत्तलिका यथा
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः
सर्वं संकथयामास विधाता चन्द्रशेखरम्
सुदुर्लभं परं धाम जरामृत्युहरं परम् 2.16.
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान्
वनमालान्वितान्सर्वान्श्यामसुन्दरविग्रहान्
सस्मितान्पद्मवक्त्रांश्च पद्मनेत्रान्मनोहरान्