किं करोषि शङ्खचूड संवादमनया सह
त्वं च पुरुषरत्नं च स्त्रीरत्नं स्त्रीष्वियं सती
निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम्
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सती
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका
यथा धरा वराहे च यथा मेना हिमालये
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे 2.16.
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
देवसेना यथा स्कन्दे धर्मे मूत्तिर्यथा सती
अनेन सार्द्धं सुचिरं सुन्दरेण च सुन्दरि
पश्चात्प्राप्स्यसि गोविन्दं गोलोके पुनरेव च
इत्येवमाशिषं कृत्वा स्वालयं प्रययौ विधिः
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह
मूर्च्छां सम्प्राप तुलसी नवसङ्गमसङ्गता
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्
अङ्गप्रत्यंग संश्लेषपूर्वकं स्त्रीमनोहरम्
अतीव रम्येदेशे च सर्वजन्तुविवर्जिते 2.16.
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते
भूषितां भूषणैः सर्वैरतीव सुमनोहराम्
जहार मानसं भर्तुर्लीलया तुलसी सती
वक्षसश्चन्दनं बाह्वोस्तिलकं विजहार सा
स तद्वक्षसि तस्याश्च नखरेखां ददौ मुदा
सुरतेर्विरतौ तौ च समुत्थाय परस्परम्
कुङ्कुमाक्तचन्दनेन सा तस्मै तिलकं ददौ
सुवासितं च ताम्बूलं वह्निशुद्धे च वाससी
अमूल्यरत्ननिर्माणमंगुलीयकमुत्तमम् 2.16.
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः
सस्मिता तन्मुखांभोजं लोचनाभ्यां पपौ पुनः
स च तां च समाकृष्य चकार वक्षसि प्रियाम्