विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः
वराय गुणहीनाय वृद्धायाज्ञानिने तथा
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च
जडाय चैव मूकाय क्लीबतुल्याय पापिने
शान्ताय गुणिने चैव यूने च विदुषेऽपि च
यः कन्यापालनं कृत्वा करोति विक्रयं यदि
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् 2.16.
इत्येवमुक्त्वा तुलसी विरराम तपोवने
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद
किं करोषि शङ्खचूड संवादमनया सह
त्वं च पुरुषरत्नं च स्त्रीरत्नं स्त्रीष्वियं सती
निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम्
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सती
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका
यथा धरा वराहे च यथा मेना हिमालये
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे 2.16.
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
देवसेना यथा स्कन्दे धर्मे मूत्तिर्यथा सती
अनेन सार्द्धं सुचिरं सुन्दरेण च सुन्दरि
पश्चात्प्राप्स्यसि गोविन्दं गोलोके पुनरेव च
इत्येवमाशिषं कृत्वा स्वालयं प्रययौ विधिः
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह
मूर्च्छां सम्प्राप तुलसी नवसङ्गमसङ्गता
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम्
अङ्गप्रत्यंग संश्लेषपूर्वकं स्त्रीमनोहरम्
अतीव रम्येदेशे च सर्वजन्तुविवर्जिते 2.16.
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते
भूषितां भूषणैः सर्वैरतीव सुमनोहराम्