पतितोऽपतितो वापि कृपणश्चेश्वरोऽथवा
ध्रुवं ताः परभोग्याश्च पतिं निन्दन्ति सन्ततम् 1.6.
गोलोके स्वामिना सार्द्धं कोटिकल्पं प्रमोदते
मदाज्ञया च तां साध्वीं ग्रहीष्यसि भवाय च
तीर्थे सहस्रं संपूज्य भक्त्या पञ्चोपचारतः
कोटिकल्पं च गोलोके मोदते च मया सह
न च्युतिस्तस्य गोलोकात्स भवेदावयोः समः
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि
ज्ञानवान्मुक्तिमान्साधुः शिवलिङ्गार्चनाद्भवेत् भवेत्तत्र मृतः पापी शिवलोकं स गच्छति
महादेव महादेव महादेवेतिवादिनः
शिवेति शब्दमुच्चार्य्य प्राणांस्त्यजति यो नरः
शिवकल्याणवचनं कल्याणं मुक्तिवाचकम् 1.6.
विच्छेदे धनबन्धूनां निमग्नः शोकसागरे
पापघ्ने वर्तते शिश्च वश्च मुक्तिप्रदे तथा
शिवेति च शिवं नाम यस्य वाचि प्रवर्त्तते
इत्युक्त्वा शूलिने कृष्णो दत्त्वा कल्पतरुं मनुम्
श्रीभगवानुवाच काले भजिष्यसि शिवं शिवदं च शिवायनम्
तेजःसु सर्वदेवानामाविर्भूय वरानने
ततः कल्पविशेषे च सत्यं सत्ययुगे सति
ततः शरीरं संत्यज्य यज्ञे भर्तुश्च निन्दया
दिव्यं वर्षसहस्रं च विहरिष्यसि शम्भुना
काले सर्वेषु विश्वेषु महापूजासु पूजिते ।। 1.6.
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता
मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि
भविष्यन्ति महान्तश्च तवैव परिचारकाः
ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते
इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम्
चकार विधिना ध्यानं भक्तं भक्तानुकम्पया
सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम्
त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः