जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः
त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि
इत्येवमुक्त्वा स पुमान्विरराम महामुने
तुलस्युवाच कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः
त्वयाऽहमधुना सत्यं विचारेण पराजिता
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं जनम्
शुध्येद्विप्रो दशाहेन जातके मृतके तथा
शूद्रो मासेन वेदेषु मातृवद्वर्णसङ्करः 2.16.
न गृह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम्
किं तस्य ज्ञानतपसा जपहोमप्रपूजनैः
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः
वराय गुणहीनाय वृद्धायाज्ञानिने तथा
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च
जडाय चैव मूकाय क्लीबतुल्याय पापिने
शान्ताय गुणिने चैव यूने च विदुषेऽपि च
यः कन्यापालनं कृत्वा करोति विक्रयं यदि
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् 2.16.
इत्येवमुक्त्वा तुलसी विरराम तपोवने
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद
किं करोषि शङ्खचूड संवादमनया सह
त्वं च पुरुषरत्नं च स्त्रीरत्नं स्त्रीष्वियं सती
निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम्
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सती
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका
यथा धरा वराहे च यथा मेना हिमालये
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे 2.16.
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने
देवसेना यथा स्कन्दे धर्मे मूत्तिर्यथा सती