कृत्यास्वरूपं तद्यत्तु स्वर्वेश्यादिकमेव च
सत्त्वप्रधानं यद्रूपं तच्च शुद्धं स्वभावतः
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः
स्थानाभावात्क्षणाभावान्मध्यवृत्तेरभावतः
बहुगोष्ठा वृतेनैव रिपुराजभयेन च
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम्
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना 2.16.
अहमेव शङ्खचूडो देवविद्रावकारकः
अहमष्टसु गोपेषु गोगोपीपार्षदेषु च
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः
त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि
इत्येवमुक्त्वा स पुमान्विरराम महामुने
तुलस्युवाच कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः
त्वयाऽहमधुना सत्यं विचारेण पराजिता
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं जनम्
शुध्येद्विप्रो दशाहेन जातके मृतके तथा
शूद्रो मासेन वेदेषु मातृवद्वर्णसङ्करः 2.16.
न गृह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम्
किं तस्य ज्ञानतपसा जपहोमप्रपूजनैः
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः
वराय गुणहीनाय वृद्धायाज्ञानिने तथा
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च
जडाय चैव मूकाय क्लीबतुल्याय पापिने
शान्ताय गुणिने चैव यूने च विदुषेऽपि च
यः कन्यापालनं कृत्वा करोति विक्रयं यदि
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् 2.16.
इत्येवमुक्त्वा तुलसी विरराम तपोवने
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद