लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः
आपात मधुरामन्ते चान्तकां पुरुषस्य ताम्
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम्
कार्य्यार्थे स्वामिवशगामन्यथैवावशां सदा
श्रुतौ पुराणे यासां च चरित्रमनिरूपितम्
तासां को वा रिपुर्मित्रं प्रार्थयन्तीं नवं नवम्
बाह्ये स्वात्मसतीत्वं च ज्ञापयन्तीं प्रयत्नतः
बाह्ये छलाच्छादयन्तीं स्वान्तर्मैथुनलालसाम् 2.16.
मानिनीं मैथुनाभावे कोपिनीं कलहांकुराम्
सुमृष्टान्नं शीततोयमाकांक्षन्तीं च मानसे
सुतात्परमतिस्नेहं कुर्वन्तीं रतिकर्तरि
पश्यन्तीं रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम्
चर्चया भक्षयन्तीं तं कीनाश इव गोरजः
शश्वत्कपटरूपां च सर्वदोषाश्रयां सदा
तपोमार्गार्गलां शश्वन्मुक्तिद्वारकपाटिकाम्
हरेर्भक्तिव्यवहितां सर्वमाया करण्डिकाम्
इन्द्रजालस्वरूपां च मिथ्यावादिस्वरूपिणीम्
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।।।2.16.
मायारूपं मायिनां च विधिना निर्मितं पुरा
इत्युक्त्वा तुलसी तं च विरराम च नारद
शंखचूड उवाच किंचित्सत्यमलीकं च किंचिन्मत्तो निशामय
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम्
लक्ष्मी सरस्वती दुर्गा सावित्री राधिकादिकम्
एतासामंशरूपं यत्स्त्रीरूपं वास्तवं स्मृतम्
शतरूपा देवहूतिस्स्वधा स्वाहा च दक्षिणा
कुबेरवायुपत्नी साऽप्यदितिश्च दितिस्तथा
अहल्याऽरुन्धती मेना तारा मन्दोदरी परा
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा 2.16.
स्वस्तिः श्रद्धा च कान्तिश्च तुष्टिः शान्तिस्तथा परा
सम्पत्तिवृत्तिकीर्त्यश्च क्रियाशोभाप्रभांशकम्