बभूव सा नम्रमुखी नवसङ्गमलज्जिता
पिबन्ती तन्मुखाम्भोजं लोचनाभ्यां च सन्ततम्
पुष्पचन्दनतल्पस्थां वसन्तीं वाससा वृताम्
सुपीनकठिनश्रोणीं पीनोन्नतपयोधराम्
पक्वबिम्बाधरोष्ठीं च सुनासां सुन्दरीं वराम्
स्वतेजसा परिवृतां सुखदृश्यां मनोरमाम्
सिन्दूरबिन्दुना शश्वत्सीमन्ताधःस्थलोज्ज्वलाम्
करपद्मतलारक्तां नखचन्द्रैर्विभूषिताम्
आरक्तवर्णं ललितमलक्तकसमप्रभम् 2.16.
शरदिन्दुविनिन्द्यैकनखेन्द्वोघविराजिताम्
मणीन्द्रमुख्यखचितक्वणन्मञ्जीररञ्जिताम्
दधतीं कबरीभारं मालतीमाल्यसंयुतम्
चित्रकुण्डलयुग्मश्रीसुषुमापरिशोभिताम्
रत्नकंकणकेयूरशंखभूषणभूषिताम्
दृष्ट्वा तां ललितां रम्यां सुशीलां सुदतीं सतीम्
शंखचूड उवाच का त्वं कामिनि कल्याणि सर्वकल्याणदायिनि
स्वर्गभोगादिसरितिविहारे हाररूपिणि
इत्येवं वचनं श्रुत्वा सकामा वामलोचना 2.16.
तुलस्युवाच तपस्विनीह तिष्ठामि कस्त्वं गच्छ यथासुखम्
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम्
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः
आपात मधुरामन्ते चान्तकां पुरुषस्य ताम्
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम्
कार्य्यार्थे स्वामिवशगामन्यथैवावशां सदा
श्रुतौ पुराणे यासां च चरित्रमनिरूपितम्
तासां को वा रिपुर्मित्रं प्रार्थयन्तीं नवं नवम्
बाह्ये स्वात्मसतीत्वं च ज्ञापयन्तीं प्रयत्नतः
बाह्ये छलाच्छादयन्तीं स्वान्तर्मैथुनलालसाम् 2.16.
मानिनीं मैथुनाभावे कोपिनीं कलहांकुराम्
सुमृष्टान्नं शीततोयमाकांक्षन्तीं च मानसे