ब्रह्मोवाच तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि
शृंगारं युवयोर्गोप्यमाज्ञास्यति च राधिका
इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम्
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्
सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम्
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् 2.15.
भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा
नारायण उवाच नवयौवनसम्पन्ना प्रशंसन्ती वरांगना
चिक्षेप पञ्चबाणश्च पञ्च बाणांश्च तां प्रति
पुलकाञ्चितसर्वांगी कम्पिता रक्तलोचना
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम्
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम्
भ्रमन्ती क्षणमुद्वेगाद्विवसन्ती क्षणं पुनः
पुष्पचन्दनतल्पं च तद्बभूवातिकण्टकम्
निलयश्च निराकारः सूक्ष्मवस्त्रं हुताशनः
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम् 2.16.
कथयन्तं रतिकथां चुम्बन्तमधरं मुहुः
पुनरेव तु गच्छन्तमागच्छन्तं वसन्तकम्
पुनः स्वचेतनां प्राप्य विललाप पुनः पुनः
शङ्खचूडो महायोगी जैगीषव्यान्मनोरमम्
पठन्सदा तु कवचं सर्वमङ्गलमङ्गलम्
आज्ञया ब्रह्मणः सोऽपि बदरीं वै समाययौ
नवयौवनसम्पन्नं कामदेवसमप्रभम्
श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम्
महारत्नगणाक्लृप्तविमानस्थं मनोहरम्
पारिजातप्रसूनाढ्यमाल्यवन्तं च सुस्मितम् 2.16.
सा दृष्ट्वा सन्निधाने तं मुखमाच्छाद्य वाससा