स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च
अधुना तस्य पत्नी च भव भाविनि शोभने
शापान्नारायणस्यैव कलया दैवयोगतः
प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेत्
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च
वृक्षाधिदेवीरूपेण सार्द्धं कृष्णेन सन्ततम्
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा
तुलत्युवाच सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे।।2.15.
अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभंगतः
तत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम्
ब्रह्मोवाच तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि
शृंगारं युवयोर्गोप्यमाज्ञास्यति च राधिका
इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम्
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्
सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम्
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् 2.15.
भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा
नारायण उवाच नवयौवनसम्पन्ना प्रशंसन्ती वरांगना
चिक्षेप पञ्चबाणश्च पञ्च बाणांश्च तां प्रति
पुलकाञ्चितसर्वांगी कम्पिता रक्तलोचना
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम्
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम्
भ्रमन्ती क्षणमुद्वेगाद्विवसन्ती क्षणं पुनः
पुष्पचन्दनतल्पं च तद्बभूवातिकण्टकम्
निलयश्च निराकारः सूक्ष्मवस्त्रं हुताशनः
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम् 2.16.
कथयन्तं रतिकथां चुम्बन्तमधरं मुहुः