तुलस्युवाच सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम्
अहं च तुलसी गोपी गोलोकेऽहं स्थिता पुरा
गोविन्देन सहासक्तामतृप्तां मां च मूर्च्छिताम्
गोविन्दं भर्त्सयामास मां शशाप रुषाऽन्विता
मामुवाच स गोविन्दो मदंशं त्वं चतुर्भुजम्
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानमवाप सः
अहं नारायणं कान्तं शान्तं सुन्दविग्रहम्
ब्रह्मोवाच तदंशश्चातितेजस्वी चालभज्जन्म भारते ।। 2.15.
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः
स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च
अधुना तस्य पत्नी च भव भाविनि शोभने
शापान्नारायणस्यैव कलया दैवयोगतः
प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेत्
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च
वृक्षाधिदेवीरूपेण सार्द्धं कृष्णेन सन्ततम्
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा
तुलत्युवाच सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे।।2.15.
अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभंगतः
तत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम्
ब्रह्मोवाच तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि
शृंगारं युवयोर्गोप्यमाज्ञास्यति च राधिका
इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम्
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्
सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम्
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् 2.15.
भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा
नारायण उवाच नवयौवनसम्पन्ना प्रशंसन्ती वरांगना