पतिं देहि पतिं देहि पतिं देहि त्रिलोचन
शिवस्तत्प्रार्थनां श्रुत्वा सस्मितो रसिकेश्वरः
तेनासीत्पाण्डवानां च पञ्चानां कामिनी प्रिया 2.14.
अथ संप्राप्य लङ्कायां सीतां रामो मनोहराम्
एकादशसहस्राब्दं कृत्वा राज्यं च भारते
कमलांशा वेदवती कमलायां विवेश सा
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च
कुशध्वजसुताख्यानमुक्तं संक्षेपतस्तव
नारायण उवाच नृपेण सार्द्धं सा रागाद्रेमे वै गन्धमादने
शय्यां रतिकरींकृत्वा पुष्पचन्दनचर्चिता
स्त्रीरत्नमतिचार्वंगी रत्नभूषणभूषिता
सुरताद्विरतिर्नासीत्तयोः सुरतविज्ञयोः
ततो रजस्वलां प्राप्य सुरताद्विरराम सः
दधार गर्भं सा सद्यो देवाब्दशतकं सती
शुभक्षणे शुभदिने शुभयोगेन संयुते
कार्तिकीपूर्णिमायां च सितवारे च पद्मजे
पादपद्मयुगे चैव पद्मरागविराजिताम्
राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् 2.15.
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम्
तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम्
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम्
नरा नार्य्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः
सा च भूमिष्ठमात्रेण योग्या स्त्रीप्रकृतिर्यथा
तत्र दैवाब्दलक्षं च चकार परमं तपः
ग्रीष्मे पञ्चतपाः शीते तोयस्था सा च सुन्दरी
विंशत्सहस्रवर्षं च फलतोयाशना च सा
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः 2.15.
चतुर्मुखं च सा दृष्ट्वा प्राणंसीद्धंसवाहनम्
ब्रह्मोवाच हरिभक्तिं च मुक्तिं वाऽप्यजरामरतामपि