तां च वह्निपरीक्षां व कारयामास सत्वरम्
छाया चोवाच वह्निं च रामं च विनयान्विता
वह्निरुवाच कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ।। 2.14.
सा च तद्वचनं श्रुत्वा प्रतेपे पुष्करे तपः
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा
कृते युगे वेदवती कुशध्वजसुता शुभा
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा
नारद उवाच इति वै चित्तसन्देहं दूरीकुरु महाप्रभो
नारायण उवाच रूपयौवनसम्पन्ना छाया सा बहुविह्वला
रामाग्न्योराज्ञया तप्त्वा ययाचे शङ्करं वरम्
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन
शिवस्तत्प्रार्थनां श्रुत्वा सस्मितो रसिकेश्वरः
तेनासीत्पाण्डवानां च पञ्चानां कामिनी प्रिया 2.14.
अथ संप्राप्य लङ्कायां सीतां रामो मनोहराम्
एकादशसहस्राब्दं कृत्वा राज्यं च भारते
कमलांशा वेदवती कमलायां विवेश सा
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च
कुशध्वजसुताख्यानमुक्तं संक्षेपतस्तव
नारायण उवाच नृपेण सार्द्धं सा रागाद्रेमे वै गन्धमादने
शय्यां रतिकरींकृत्वा पुष्पचन्दनचर्चिता
स्त्रीरत्नमतिचार्वंगी रत्नभूषणभूषिता
सुरताद्विरतिर्नासीत्तयोः सुरतविज्ञयोः
ततो रजस्वलां प्राप्य सुरताद्विरराम सः
दधार गर्भं सा सद्यो देवाब्दशतकं सती
शुभक्षणे शुभदिने शुभयोगेन संयुते
कार्तिकीपूर्णिमायां च सितवारे च पद्मजे
पादपद्मयुगे चैव पद्मरागविराजिताम्
राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् 2.15.
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम्
तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम्