तुष्टाव मनसा देवीं पद्मांशां पद्मलोचनाम्
शशाप च मदर्थे त्वं विनश्यसि सबान्धवः
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह
अहो किमद्भुतं दृष्टं किं कृतं वा मयाऽधुना ।। 2.14.
सा च कालान्तरे साध्वी बभूव जनकात्मजा
महातपस्विनी सा च तपसा पूर्वजन्मनः
संप्राप्य तपसाऽऽराध्य स्वामिनं च जगत्पतिम्
जातिस्मरा स्म स्मरति तपसश्च क्रमं पुरा
नानाप्रकारविभवं चकार सुचिरं सती
गुणिनं रसिकं शान्तं कान्तवेषमनुत्तमम्
पितुर्वचःपालनार्थं सत्यसन्धो रघूत्तमः
तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च
तं रामं दुःखितं दृष्ट्वा स च दुःखी बभूव ह
वह्निरुवाच सीताहरणकालोऽयं तवैव समुपस्थितः ।। 2.14.
दैवं च दुर्निवार्य्यं वै न च दैवात्परं बलम्
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम्
वह्निर्योगेन सीतावन्मायासीतां चकार ह
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषेध्य च
एतस्मिन्नन्तरे रामो ददर्श कनकं मृगम्
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने
लक्ष्मणेति च शब्दं वै कृत्वा मायामृगस्तदा
वैकुण्ठस्य महाद्वारं किङ्करो द्वारपालयोः 2.14.
शापेन सनकादीनां सम्प्राप्तो राक्षसीं तनुम्
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम्
गते च लक्ष्मणे रामं रावणो दुर्निवारणः
विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम्
मूर्च्छां सम्प्राप्य सुचिरं विललाप भृशं पुनः
काले संप्राप्य तद्वार्तां गृधद्वारा नदीतटे
लङ्कां गत्वा रघुश्रेष्ठश्चावधीत्सायकेन च