यत्र जन्म भ्रमो विश्वे पुण्यक्षेत्रे च भारते
जन्म कस्य गृहे लब्धं पुण्ये पुण्यवतो मुने
आविर्भूय च तद्गेहात्क्वागतः केन हेतुना
भारावतरणं केन प्रार्थितो गोश्चकार सः
इतीदमन्यदाख्यानं पुराणं श्रुतिदुर्लभम्
स्वज्ञानाद्यन्मया पृष्टमपृष्टं वा शुभाशुभम्
शिष्यपृष्टमपृष्टं वा व्याख्यानं कुरुते च यः
सौतिरुवाच सिद्धक्षेत्रादागतोऽहं यामि नारायणाश्रमम्
दृष्ट्वा विप्रसमूहं च नमस्कर्तुमिहागतः
देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु संभ्रमात् 1.1.
हरिर्ब्राह्मणरूपेक्षण शश्वद् भ्रमति भूतले
भगवन्यत्त्वया पृष्टं ज्ञातं सर्वमभीप्सितम्
पुराणोपपुराणानां वेदानां भ्रमभञ्जनम्
कामिनां कामदं चेदं मुमुक्षूणां च मोक्षदम्
ब्रह्मखण्डं सर्वबीजं परब्रह्मनिरूपणम्
वैष्णवा योगिनः सन्तो न च भिन्नाश्च शौनक
सन्तो भवन्ति सत्सङ्गाद्योगिसंगेन योगिनः
यत्रोद्भवश्च देवानां देवीनां सर्वजीविनाम्
जीवकर्मविपाकश्च शालिग्रामनिरूपणम्
प्रकृतेर्लक्षणं तत्र कलांशानां निरूपणम् 1.1.
सुकृतीनां दुष्कृतीनां यद्यत्स्थानं शुभाशुभम्
ततो गणेशखण्डे च तज्जन्म परिकीर्तितम्
गणेशभृगुसंवादे सर्वतत्त्वनिरूपणम्
श्रीकृष्णजन्मखण्डं च कीर्तितं च ततः परम्
भुवो भारावतरणं क्रीडाकौतुकमङ्गलम्
इदं ते कथितं विप्र पुराणप्रवरं परम्
सर्वेषामीप्सितं श्रीदं सर्वाशापूर्णकारणम्
सारभूतं पुराणेषु केवलं वेदसंमितम्
ब्रह्मवैवर्तकं तेन प्रवदन्ति पुराविदः
निरामये च गोलोके कृष्णेन परमात्मना 1.1.