यूयं गच्छत भद्रं वो भविष्यति भयं कुतः
आशुतोषः स भगवाञ्छरण्यश्च सतां गतिः
सुदर्शनं शिवश्चैव मम प्राणाधिकप्रियौ
शक्तः स्रष्टुं महादेवः सूर्य्यकोटिं च लीलया
बाह्यज्ञानं तन्न किंचिद्ध्यायतो मां दिवानिशम्
अहमेव चिन्तयामि तत्कल्याणं दिवानिशम्
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता 2.13.
एतस्मिन्नन्तरे तत्र चागमच्छङ्करः स्वयम्
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम्
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम्
चन्दनोक्षितसर्वांगं भूषितं पीतवाससा
विद्याधरीनृत्यगीतं शृण्वन्तं सस्मितं मुदा
तं ननाम महादेवो ब्रह्माणं च ननाम सः
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम्
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा 2.13.
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि
श्रीभगवानुवाच लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्
तपसां फलदातारं दातारं सर्वसम्पदाम्
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छामि किं वृथा
त्वामेव वाग्धनं प्रश्नमलं स्वाश्रयमागमे
श्रीमहादेव उवाच सूर्य्यः शशाप इति मे हेतुरागमकोपयोः
पुत्रवात्सल्यशोकेन सूर्य्यं हन्तुं समुद्यतः
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो 2.13.
श्रीभगवानुवाच वैकुण्ठे घटिकार्द्धेन शीघ्रं याहि नृपालयम्
वृषध्वजो मृतः कालाद्दुर्निवार्य्यात्सुदारुणात्
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ