न कोऽपि देवो भूपेन्द्रं शशाप शिवकारणात्
शूलं गृहीत्वा तं सूर्य्यं धृतवाच्छङ्करः स्वयम्
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा
शूलं गृहीत्वा तत्रापि धृतवाञ्छङ्करो रविम्
नारायणं च सर्वेशं ते ययुः शरणं भिया
सर्वे निवेदनं चक्रुर्भियस्ते कारणं हरौ
नारायणश्च कृपयाऽभयं तेभ्यो ददौ मुने 2.13.
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः
पाताऽहं जगतां देवः कर्त्ताऽहं सततं सदा
शिवोऽहं त्वमहं चापि सूर्य्योऽहं त्रिगुणात्मकः
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः
आशुतोषः स भगवाञ्छरण्यश्च सतां गतिः
सुदर्शनं शिवश्चैव मम प्राणाधिकप्रियौ
शक्तः स्रष्टुं महादेवः सूर्य्यकोटिं च लीलया
बाह्यज्ञानं तन्न किंचिद्ध्यायतो मां दिवानिशम्
अहमेव चिन्तयामि तत्कल्याणं दिवानिशम्
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता 2.13.
एतस्मिन्नन्तरे तत्र चागमच्छङ्करः स्वयम्
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम्
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम्
चन्दनोक्षितसर्वांगं भूषितं पीतवाससा
विद्याधरीनृत्यगीतं शृण्वन्तं सस्मितं मुदा
तं ननाम महादेवो ब्रह्माणं च ननाम सः
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम्
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा 2.13.
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि
श्रीभगवानुवाच लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्
तपसां फलदातारं दातारं सर्वसम्पदाम्