तेन त्वां सा वृणोत्येव यतस्त्वद्देहसम्भवा
इत्येवमुक्त्वा धाता च तां समर्प्य जगाम सः
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम्
गां पृथ्वीं च गता यस्मात्स्वस्थानं पुनरागता 2.12.
मूर्च्छां सम्प्राप सा देवी नवसङ्गममात्रतः
तद्दृष्ट्वा दुःखिता वाणी सापत्न्येर्ष्याविवर्जिता
गङ्गया सहितस्यैव तिस्रो भार्या रमापतेः
नारद उवाच तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि
कस्य वा सा कुले जाता कस्य कन्या तपस्विनी
निर्विकल्पं निरीहं च सर्वसाक्षिस्वरूपकम्
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम्
कथमेतादृशी देवी वृक्षत्वं समवाप ह
सन्दिग्धं मे मनो लोलं प्रेरयेन्मां मुहुर्मुहुः ।। छेत्तुमर्हसि सन्देहं सर्वसन्देहभञ्जना
नारायण उवाच यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः
तत्पुत्रो धर्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः 2.13.
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च
पूजां च सर्वदेवानां दूरीभूतां चकार सः
माघे सरस्वतीपूजां दूरीभूतां चकार सः
न कोऽपि देवो भूपेन्द्रं शशाप शिवकारणात्
शूलं गृहीत्वा तं सूर्य्यं धृतवाच्छङ्करः स्वयम्
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा
शूलं गृहीत्वा तत्रापि धृतवाञ्छङ्करो रविम्
नारायणं च सर्वेशं ते ययुः शरणं भिया
सर्वे निवेदनं चक्रुर्भियस्ते कारणं हरौ
नारायणश्च कृपयाऽभयं तेभ्यो ददौ मुने 2.13.
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः
पाताऽहं जगतां देवः कर्त्ताऽहं सततं सदा
शिवोऽहं त्वमहं चापि सूर्य्योऽहं त्रिगुणात्मकः