सर्वं तत्सामवेदोक्तं पुरश्चर्य्याक्रमं तथा
लक्ष्मीः सरस्वती गंगा तुलसी विश्वपावनी 2.11.
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच ह
श्रीकृष्ण उवाच शृणु कालस्य वृत्तान्तं यदतीतं निशामय
यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा
ते ते जीवन्ति गोलोके कालचक्र विवर्जिते
ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम्
एवमन्येषु विश्वेषु सृष्ट्वा ब्रह्मादिकं पुनः
मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत्
इत्युक्त्वा राधिकानाथो जगामान्तःपुरं मुने
गोलोके च स्थिता गंगा वैकुण्ठे शिवलोकके 2.11.
तत्रैव सा गता गंगा चाज्ञया परमात्मनः
इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम्
नारद उवाच एता नारायणस्यैव चतस्रश्च प्रिया इति
गंगा जगाम वैकुण्ठमिदमेव श्रुतं मया
नारायण उवाच गत्वोवाच तया सार्द्धं प्रणम्य जगदीश्वरम्
ब्रह्मोवाच तदधिष्ठातृदेवीयं रूपेणाप्रतिमा भुवि
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा
यदङ्गसम्भवा नान्यं वृणोतीयं च तं विना
समुद्यता पातुमिमां भीतेयं बुद्धिपूर्वकम्
सर्वं विशुष्कं गोलोकं दृष्ट्वाऽहमगमं तदा
सर्वान्तरात्मा सर्वं नो ज्ञात्वाऽभिप्रायमेव च
दत्त्वाऽस्यै राधिकामन्त्रं पूरयित्वा च गोलकम् 2.12.
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम्
पुंरत्नं पुंसु देवेषु स्त्रीरत्नं स्त्रीष्वियं सती
उपस्थितां च यः कन्यां न गृह्णाति मदेन च
यो भवेत्पण्डितः सोऽपि प्रकृतिं नावमन्यते
त्वमेव भगवा नाद्यो निर्गुणः प्रकृतेः परः
कृष्णवामांगसम्भूता परमा राधिका पुरा