शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम्
नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् 1.6.
त्वद्भक्तिविषये दास्ये लालसा वर्द्धतेऽनिशम्
त्वन्नामपञ्चवक्त्रेण गुणं सन्मङ्गलालयम्
आकल्पकोटिकोटिं च तद्रूपध्यानतत्परम्
त्वत्सेवने पूजने च वन्दने नाम कीर्तने
स्मरणं कीर्त्तनं नाम गुणयोः श्रवणं जपः
समर्पणं चात्मनश्च नित्यं नैवेद्यभोजनम्
सार्ष्टिसालोक्यसारूप्यसामीप्यं साम्यलीनताम्
अणिमालघिमाप्राप्तिः प्राकाम्यं महिमा तथा
सर्वज्ञ दूरश्रवणं परकायप्रवेशनम्
अमरत्वं च सर्वाग्र्यं सिद्धयोऽष्टादश स्मृताः ।। 1.6.
यशःकीर्तिर्वचः सत्यं धर्माण्यनशनानि च
सुरार्चा दर्शनं सप्तद्वीपसप्तप्रदक्षिणम्
ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम्
सर्वाण्येतानि सर्वेश कथितानि च यानि च
शर्वस्य वचनं श्रुत्वा कृष्णस्तं योगिनां गुरुम्
मत्सेवां कुरु सर्वेश शर्वसर्वविदांवर
वरस्तपस्विनां त्वं च सिद्धानां योगिनां तथा
अमरत्वं लभ भव भव मृत्युंजयो महान्
असंख्यब्रह्मणां पातं लीलया वत्स पश्यसि
परा क्रमेण यशसा महसा मत्समो भव 1.6.
त्वत्परो नास्ति मे प्रेयांस्त्वं मदीयात्मनः परः
पच्यन्ते कालसूत्रेण यावच्चन्द्रदिवाकरौ
ममाव्यर्थं च वचनं पालनं कर्तुमर्हसि
मद्वाक्यं च स्ववाक्यं च पालनं तत्करिष्यसि
सुखं महच्च शृङ्गारं करिष्यसि न संशयः
काले गृही तपस्वी च योगी स्वेच्छामयो हि यः
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता
करोति पालनं स्नेहात्सत्पुत्रस्य समं पतिम्