कः सेव्यस्सेवको वेति दृष्ट्वा निर्वक्तुमक्षमः
एकमेव क्षणं कृष्णं राधया सहितं परम् 2.11.
राधारूपधरं कृष्णं कृष्णरूपकलत्रकम्
हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा
ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम्
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः
श्रीभगवानुवाच इहागच्छ महादेव शश्वत्कुशलमस्तु वः
आगताः स्थ महाभागा गङ्गानयनकारणात्
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः
धाता चतुर्णां वेदानामुवाच चतुराननः ।। 2.11.
गङ्गा त्वदङ्गसम्भूता प्रभोर्वै रासमण्डले
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया
भविष्यति पतिस्तस्या वैकुण्ठे च चतुर्भुजः
गोलोकस्था च या राधा सर्वत्रस्था तथात्मिका
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता
तत्रैव संवृता शान्ता तस्थौ तेषां च मध्यतः
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः
सर्वं तत्सामवेदोक्तं पुरश्चर्य्याक्रमं तथा
लक्ष्मीः सरस्वती गंगा तुलसी विश्वपावनी 2.11.
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच ह
श्रीकृष्ण उवाच शृणु कालस्य वृत्तान्तं यदतीतं निशामय
यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा
ते ते जीवन्ति गोलोके कालचक्र विवर्जिते
ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम्
एवमन्येषु विश्वेषु सृष्ट्वा ब्रह्मादिकं पुनः
मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत्