निरीहं च निराकारं निर्लिप्तं च निराश्रयम्
स्वेच्छामयं च साकारं भक्तानुग्रहविग्रहम् ।। 2.11.
परं परेशं परमं परमात्मानमीश्वरम्
सगद्गदा साश्रुनेत्राः पुलकाङ्कितविग्रहाः
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम्
सेव्यमानं च गोपालैः श्वेतचामरवायुना
वल्गुवेषैः परिवृतं गोपैश्च शतकोटिभिः
नवीननीरदश्यामं किशोरं पीतवाससम्
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहम्
कोटिकन्दर्पसौन्दर्य्यलीलालावण्यविग्रहम्
भूषणैर्भूषिताभिश्च महारत्नविनिर्मितैः
प्राणाधिकप्रियतमाराधावक्षःस्थलस्थितम् परिपूर्णतमं रासे ददृशुः सर्वतः सुराः ।। 2.11.
मुनयो मानवाः सिद्धास्तपसा च तपस्विनः
परस्परं समालोच्य ते तमूचुश्चतुर्मुखम्
ब्रह्मा तद्वचनं श्रुत्वा स्थितं विष्णोस्तु दक्षिणे
परमानन्दयुक्तं च परमानन्दरूपकम्
सर्वं समानवेषं च सभानासनसंस्थितम्
द्विभुजं मुरलीहस्तं वनमालाविभूषितम्
अतीव कमनीयं च सुन्दरं शान्तविग्रहम्
वाससा यशसाऽऽकृत्या मूर्त्या सुन्दरया समम्
कः सेव्यस्सेवको वेति दृष्ट्वा निर्वक्तुमक्षमः
एकमेव क्षणं कृष्णं राधया सहितं परम् 2.11.
राधारूपधरं कृष्णं कृष्णरूपकलत्रकम्
हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा
ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम्
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः
श्रीभगवानुवाच इहागच्छ महादेव शश्वत्कुशलमस्तु वः
आगताः स्थ महाभागा गङ्गानयनकारणात्
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः