प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम्
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम्
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा 2.11.
राधिकोवाच पश्यन्ती सततं पार्श्वे सकामा रक्तलोचना
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा
त्वं चापि मां सन्निरीक्ष्य सकामः सस्मितः सदा
त्वमेव चैवं दुर्वृत्तं वारंवारं करोषि च
संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा
गृहं मयि गतायां च पुनर्गत्वा तदन्तिकम्
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी 2.11.
ततस्तां च समाश्लिष्य वीर्य्याधानं कृतं त्वया
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने
शोभा देहं परित्यज्य प्राविशच्चन्द्रमण्डलम्
संविभज्य त्वया दत्तं हृदयेन विदूयता
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन
किञ्चिच्चन्दनपङ्केभ्यस्तोयेभ्यश्चापि किञ्चन
किञ्चित्फलेभ्यः सस्येभ्यः सुपक्वेभ्यश्च किञ्चन
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने
प्रभा देहं परित्यज्य प्राविशत्सूर्य्यमण्डलम्
संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा 2.11.
हुताशनाय किंचिच्च नृपेभ्यश्चापि किञ्चन
किंचिद्दस्युगणेभ्यश्च नागेभ्यश्चापि किंचन
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किंचन
शान्त्या गोप्या युतस्त्वं च दृष्टो वै रासमण्डले
रत्नप्रदीपैर्युक्तश्च रत्ननिर्मितमन्दिरे
त्वया दत्तं च ताम्बूलं भुक्तवत्यै सुवासितम्
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया