मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा
गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा
श्वेतचम्पकवर्णाभा मत्तवारणगामिनी
माणिक्यखचितं हारममूल्यं वह्निशौचकम् 2.11.
स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम्
रत्नेन्द्रराजखचितविमानादवरुह्य च
कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम्
दधती भालमध्ये च सीमन्ताधस्तदुज्ज्वलम्
सुचारुकबरीभारं कम्पयन्ती च कम्पिता
गत्वा तस्थौ कृष्णपार्श्वे रत्नसिंहासने वरे
तां च दृष्ट्वा समुत्तस्थौ कृष्णः सादरमच्युतः
प्रणेमुरभि संत्रस्ता गोपा नम्रात्मकन्धराः
उत्थाय गंगा सहसा सम्भाषां च चकार सा
नम्रभावस्थिता त्रस्ता शुष्ककण्ठौष्ठतालुका 2.11.
तद्धृत्पद्मे स्थितः कृष्णो भीतायै चाभयं ददौ
ऊर्ध्वं सिंहासनस्थां च राधां गङ्गा ददर्श सा
असंख्यब्रह्मणामाद्यां चादिसृष्टिं सनातनीम्
विश्ववृन्दे निरुपमां रूपेण च गुणेन च
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम्
कृष्णार्द्धाङ्गी कृष्णसमां तेजसा वयसा त्विषा
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम्
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम्
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा 2.11.
राधिकोवाच पश्यन्ती सततं पार्श्वे सकामा रक्तलोचना
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा
त्वं चापि मां सन्निरीक्ष्य सकामः सस्मितः सदा
त्वमेव चैवं दुर्वृत्तं वारंवारं करोषि च
संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा