इत्युक्ते शङ्करे ब्रह्मन्गोलोके सुरसंसदि
ते तं दृष्ट्वा च संहृष्टाः संस्तूय पुरुषोत्तमम्
कालेन शम्भुर्भगवाञ्छास्त्रदीपं चकार सः
सा चैवं द्रवरूपा या गङ्गा गोलोकसम्भवा
स्थाने स्थाने स्थापिता सा कृष्णेन परमात्मना
नारद उवाच क्व गता सा महाभागा तन्मे व्याख्यातुमर्हसि
नारायण उवाच जगाम तं च वैकुण्ठं शापान्ते पुनरेव सा
भारतं भारती त्यक्त्वा चागमत्तद्धरेः पदम्
गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रः प्रिया हरेः
नारद उवाच धातुः कमण्डलुस्था च शङ्करस्य शिरोगता
बभूव सा मुनिश्रेष्ठ गंगा नारायणप्रिया
पुरा बभूव गोलोके सा गंगा द्रवरूपिणी
द्रवाधिष्ठातृरूपा या रूपेणाप्रतिमा भुवि
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा
स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी 2.11.
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम्
वक्रिमं कबरीभारं मालतीमाल्यसंयुतम्
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोहरम्
पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वला
सा सकामा कृष्णपार्श्वे समुत्तस्थे सुलज्जिता
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा
गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा
श्वेतचम्पकवर्णाभा मत्तवारणगामिनी
माणिक्यखचितं हारममूल्यं वह्निशौचकम् 2.11.
स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम्
रत्नेन्द्रराजखचितविमानादवरुह्य च
कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम्
दधती भालमध्ये च सीमन्ताधस्तदुज्ज्वलम्
सुचारुकबरीभारं कम्पयन्ती च कम्पिता
गत्वा तस्थौ कृष्णपार्श्वे रत्नसिंहासने वरे