तत्रस्थाश्च जना ये ये ते च किं चक्रुरुद्यमम्
नारायण उवाच कृष्णः संपूज्य तां राधामवसद्रासमण्डले
कृष्णेन पूजितां तां तु संपूज्यादृतमानसाः
एतस्मिन्नन्तरे कृष्ण संगीतं च सरस्वती
तुष्टो ब्रह्मा ददौ तस्यै महारत्नाढ्यमालिकाम्
कृष्णः कौस्तुभरत्नं च सर्व रत्नात्परं वरम्
नारायणश्च भगवन्वनमालां मनोहराम् 2.10.
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी
धर्मबुद्धिं च धर्मस्तु यशश्च विपुलं भवे
एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा
स्थलं सर्वं जलाकीर्णं हीनराधाहरिं तथा
ध्यानेन धाता बुबुधे सर्वमेतदभीप्सितम्
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम्
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रहविग्रहा
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः 2.10.
मूर्तिं द्रष्टुं च सुव्यग्रा यूयं यदि सुरेश्वराः
स्वयं विधाता त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरो
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः
मन्मन्त्रं कवचं स्तोत्रं कृत्वा यत्नेन गोपय
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत्
अन्यथा च भविष्यन्ति सर्वे गोलोकवासिनः
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुर्भवे भवे
अधोनिवासिनः केचिद्ब्रह्मलोकनिवासिनः
इदं कर्तुं महादेवः करोतु सुरसंसदि
इत्येवमुक्त्वा गगने विरराम सनातनः 2.10.
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः
संयुक्तं विष्णुमायाद्यैर्मन्त्राद्यैः शास्त्रमुत्तमम्
गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः