श्रीनारायण उवाच राधांगद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम्
या जन्मसृष्टेरादौ च गोलोके रासमण्डले
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा
विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः 2.10.
षड्योजनसुविस्तीर्णा दैर्घ्ये दशगुणा ततः
लक्षयोजनविर्स्तार्णा दैर्घ्ये सप्तगुणा ततः
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः
योजनैष्षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः
लक्षयोजनविस्तीर्णा दैर्घ्ये षङ्गुणिता ततः
दशलक्षै र्योजनैर्या दैर्घ्ये पञ्चगुणा ततः
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः
सहस्रयोजनाऽऽयामे दैर्घ्ये सप्तगुणा ततः
पाताले या भोगवती विस्तीर्णा दशयोजना
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् 2.10.
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा
जलप्रभा कलौ या च नान्यत्र पृथिवीतले
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः
यत्तोयकणिकास्पर्शः पापिनां च पितामह
इत्येवं कथितं ब्रह्मन्गंगापद्यैकविंशतिम्
नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम्
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम्
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत्
नारायण उवाच जगाम तां गृहीत्वा च यत्र नष्टश्च सागराः ।। 2.10.
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम्
नारद उवाच द्रवतां च गतायां च राधायां किं बभूव ह