तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम्
मद्भक्तबान्धवा ये ये ते ते पुण्यधियः शुभे
यत्र तत्र मृता ये च ज्ञानाज्ञानेन वा सति
इत्युक्त्वा श्रीहरिस्तां च तमुवाच भगीरथम्
भगीरथस्तां तुष्टाव पूजयामास भक्तितः
श्रीकृष्णं प्रणनामाथ परमात्मानमीश्वरम् 2.10.
नारद उवाच पूजां चकार नृपतिर्वद वेदविदां वर
श्रीनारायण उवाच पादौ प्रक्षाल्य चाचम्य संयतो भक्तिपूर्वकम्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम्
शिवं ज्ञानाय तदिनां शिवां बुद्धिविवृद्धये
दध्यावनेन तद्ध्यानं शृणु नारद तत्त्वतः
श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम्
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्
ईषद्धासप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम्
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् 2.10.
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम्
मुक्तापंक्तिप्रभाजुष्टदन्तपंक्तिमनोहराम्
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम्
स्थलपद्मप्रभाजुष्टपादपद्मयुगंधराम्
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम्
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम्
वरां वरेण्यां वरदां भक्तानुग्रहकातराम्
इति ध्यानेन चानेन ध्यात्वा त्रिपथगां शुभाम्
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम्
वसनं भूषणं माल्यं गंधमाचमनीयकम् 2.10.
दत्त्वा भक्त्या संप्रणमेत्स्तुत्वा तां संपुटाञ्जलिः
स्तोत्रं वै कौथुमोक्तं च संवादं विष्णुवेधसोः
श्रीब्रह्मोवाच विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम्