श्रीकृष्ण उवाच पतिस्ते रुद्ररूपोऽयं लवणोदो भविष्यति
ममैवांशः समुद्रश्च त्वं च लक्ष्मीस्वरूपिणी
यावत्त्यः सन्ति नद्यश्च भारत्याद्याश्च भारते
अद्यप्रभृति देवेशि कलेः पञ्च सहस्रकम्
नित्यं वारिधिना सार्द्धं करिष्यसि रहो रतिम्
त्वां तोषयन्ति स्तोत्रेण भगीरथकृतेन च
ध्यानेन कौथुमोक्तेन ध्यात्वा त्वां पूजयिष्यति 2.10.
गङ्गा गङ्गेति यो ब्रूयाद्यो जनानां शतैरपि
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति
पापिनां तु सहस्राणां शवस्पर्शेन यत्तव
यत्र यत्र भवेद्गङ्गे मन्नामगुणकीर्त्तनम्
सार्द्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्या दिभिः शुभे
यद्रेणुस्पर्शमात्रेण पूतो भवति पातकी
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम्
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम्
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत्
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् 2.10.
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत्
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम्
अन्यत्र वा त्यजेत्प्राणान्मन्नामस्मृतिपूर्वकम्
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन
पूतं कर्तुं स शक्तो हि लीलया भुवनत्रयम्
मद्भक्तबान्धवा ये ये ते ते पुण्यधियः शुभे
यत्र तत्र मृता ये च ज्ञानाज्ञानेन वा सति
इत्युक्त्वा श्रीहरिस्तां च तमुवाच भगीरथम्
भगीरथस्तां तुष्टाव पूजयामास भक्तितः
श्रीकृष्णं प्रणनामाथ परमात्मानमीश्वरम् 2.10.
नारद उवाच पूजां चकार नृपतिर्वद वेदविदां वर
श्रीनारायण उवाच पादौ प्रक्षाल्य चाचम्य संयतो भक्तिपूर्वकम्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्