पुरुषाणां शतं पूर्वं पैतृकं च परं शतम्
भगिनीं भ्रातरं चैव भागिनेयं च मातुलम्
गुरुं च ज्ञानदातारं मित्रं च सहचारिणम्
उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः
तस्य संस्पर्शनात्पूतं तीर्थं च भुवि भारते
पादोदकस्थानमिदं तीर्थमेव भवेद्ध्रुवम्
खादन्ति नो वैष्णवाश्च सदा नैवेद्यभोजिनः 2.10.
पूतानि सर्वतीर्थानि तेषां च स्पर्शनादहो
तत्पापानि पलायन्ते वैनतेयादिवोरगाः
विष्णोः सुदर्शनं चक्रं सन्ततं तांश्च रक्षति
गद्गदाः साश्रुनेत्राश्च नरास्ते वैष्णवोत्तमाः गृहाद्याश्च मयि न्यस्तास्ते नराः वैष्णवोत्तमाः
आब्रह्मस्तम्बपर्यन्तं मत्तः सर्वं चराचरम्
असंख्यकोटिब्रह्माण्डं ब्रह्मविष्णुशिवादयः
तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम्
सर्वे प्राकृतिका मत्त आविर्भूतास्तिरोहिताः
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः
गङ्गोवाच तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ।। 2.10.
यानि कानि च पापानि मह्यं दास्यन्ति पापिनः
कतिकालं परिमितं स्थितिर्मे तत्र भारते
ममान्यद्वाच्छितं यद्यत्सर्वं जानासि सर्ववित्
श्रीकृष्ण उवाच पतिस्ते रुद्ररूपोऽयं लवणोदो भविष्यति
ममैवांशः समुद्रश्च त्वं च लक्ष्मीस्वरूपिणी
यावत्त्यः सन्ति नद्यश्च भारत्याद्याश्च भारते
अद्यप्रभृति देवेशि कलेः पञ्च सहस्रकम्
नित्यं वारिधिना सार्द्धं करिष्यसि रहो रतिम्
त्वां तोषयन्ति स्तोत्रेण भगीरथकृतेन च
ध्यानेन कौथुमोक्तेन ध्यात्वा त्वां पूजयिष्यति 2.10.
गङ्गा गङ्गेति यो ब्रूयाद्यो जनानां शतैरपि
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति
पापिनां तु सहस्राणां शवस्पर्शेन यत्तव