अंशुमाँस्तस्य पुत्रश्च गङ्गानयनकारणात्
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात्
द्विभुजं मुरलीहस्तं किशोरं गोपवेषकम्
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभुम्
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम्
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् 2.10.
लीलया च वरं प्राप्य वाञ्छितं वंशतारकम्
तं प्रणम्य प्रतस्थौ च तत्पुरः संपुटाञ्जलिः कुर्वतीं स्तवनं दिव्यं पुलकाञ्चितविग्रहाम्
श्रीकृष्ण उवाच
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया
बिभ्रतो दिव्यमूर्त्तिं ते दिव्यस्यन्दनगामिनः
कर्मभोगं समुच्छिद्य कृतं जन्मनि जन्मनि
गंगायाः स्पर्शवातेन नश्यतीति श्रुतौ श्रुतम्
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम्
यानि कानि च पापानि ब्रह्महत्यादिकानि च
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् 2.10.
केचिद्वदन्ति ते देवि फलमेव यथागमम्
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि
ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने
ततो दशगुणं पुण्यं नराणामुत्तरायणे
अक्षयायां च तत्तुल्यं नैतद्वेदे निरूपितम्
सामान्यदिवसे स्नानं ध्यानाच्छतगुणं फलम्
माघस्य सितसप्तम्यां भीष्माष्टम्यांतथैव च
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम्
नन्दासमं च वारुण्यां महत्पूर्वं चतुर्गुणम्
पुण्यं कोटिगुणं चैव सामान्यस्नानतो भवेत् 2.10.
पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम्
फलसन्धानरहिता जीवन्मुक्ताश्च वैष्णवाः
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेत्परः