शृङ्गारार्हं भोगवस्तुतल्पासंख्यसमन्वितम्
नानाचित्रविचित्राढथं सद्रत्नकलशोज्ज्वलम्
वह्निशुद्धांशुकैश्चित्रैर्मुक्ताजालैर्विभूषितम्
आरक्तवर्णरत्नेन्द्रसारनिर्माणकृत्रिमैः
ददौ नारायणायैकं तेषां मध्ये द्विजोत्तमः
आविर्बभूव कृष्णस्य गुह्यदेशात्ततः परम् 1.5.
आविर्भूता यतो गुह्यात्तेन ते गुह्यकाः स्मृताः
बभूव कन्यका चैका कुबेरे वामपार्श्वतः
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः
शङ्खचक्रगदापद्मधारिणो वनमालिनः
किरीटिनः कुण्डलिनो रत्नभूषणभूषिताः
चतुर्भुजान्पार्षदांश्च ददौ नारायणाय च
द्विभुजाः श्यामवर्णाश्च जपमालाकरा वराः
दास्यो नियुक्ता दसाश्चैवार्घ्यमादाय यत्नतः
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदा
आविर्बभूवुः कृष्णस्य दक्षनेत्राद्भयङ्कराः 1.5.
दिगम्बरा महाकाया ज्वलदग्निशिखोपमाः
रुरुसंहारकालाख्या असितक्रोधभीषणाः
आविर्बभूव कृष्णस्य वामनेत्राद्भयङ्करः
दिगम्बरो महाकायस्त्रिणेत्रश्चन्द्रशेखरः
डाकिन्यश्चैव योगिन्यः क्षेत्रपालाः सहस्रशः
सुरास्त्रिकोटिसंख्याता दिव्यमूर्तिधरावराः
सौतिरुवाच नारायणाय प्रददौ रत्नेन्द्रं मालया सह
सावित्रीं ब्रह्मणे प्रादान्मूर्तिं धर्माय सादरम्
अन्याश्च या या अन्यभ्यो याश्च येभ्यः समुद्भवाः
ततः शंकरमाहूय सर्वेशो योगिनां गुरुम्
श्रीकृष्णस्य वचः श्रुत्वा प्रहसन्नीललोहितः
श्रीमहेश्वर उवाच त्वद्भक्त्यैकव्यवहितां दास्यमार्गविरोधिनीम्
तत्त्वज्ञानसमाच्छन्नां योगद्वारकपाटिकाम्
तपस्याच्छन्नरूपां च महामोहकरण्डिकाम्