परकीये लुप्तकूपे कूपं मूढः करोति यः
परकीयतडागे च पङ्कमुद्धृत्य चोत्सृजेत्
पिण्डं पित्रे भूतिभर्त्तुर्न प्रदाय च मानवः
भूमौ दीपं योऽर्पयति सोऽन्धः सप्तसु जन्मसु
मुक्तामाणिक्यहीरं च सुवर्णं च मणिं तथा 2.9.
शिवलिङ्गं शिलामर्च्यां यश्चार्पयति भूतले
सूक्तं मन्त्रं शिलातोयं पुष्पं च तुलसीदलम्
जपमालां पुष्पमालां कर्पूरं रोचनां तथा
मुने चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम्
पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेत्तु यः
ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम्
यज्ञं कृत्वा तु यो भूमिं क्षीरेण नहि सिञ्चति
भूकम्पे ग्रहणे यो हि करोति खननं भुवः
हरेरूरौ च या जाता सा चोर्वी परिकीर्त्तिता 2.9.
इज्या च यागभरणात्क्षोणी क्षीणा लये च या
काश्यपी कश्यपस्येयमचला स्थितिरूपतः
पृथ्वी पृधुककन्यात्वाद्विस्तृतत्वान्मही मुने
नारद उवाच गङ्गोपाख्यानमधुना वद वेदविदां वर
भारतं भारतीशा पादाजगाम सुरेश्वरी
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा
राजराजेश्वरः श्रीमन्सगरः सृर्य्यवंशजः
सत्यस्वरूपः सत्येष्टः सत्यवाक्सत्यभावनः
एककन्यश्चैकपुत्रो बभूव सुमनोहरः
अन्या चाराधयामास शङ्करं पुत्रकामुकी
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमा 2.10.
कपिलर्षेः कोपदृष्ट्या बभूवुर्भस्मसाच्च ते
तपश्चकारासमंजो गङ्गानयनकारणात्
दिलीपस्तस्य तनयो गङ्गानयनकारणात