नारायण उवाच ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः
ॐ ह्रीं श्रीं वां वसुधायै स्वाहा
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् 2.8.
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम्
ध्यानेनानेन सा देवी सर्वैर्वै पूजिता भवेत्
विष्णुरुवाच जयेऽजये जयाधारे जयशीले जयप्रदे
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते
सर्वसस्यालये सर्वसस्याड्ये सर्वसस्यदे
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे
भूमे भूमिपसर्वस्वे भूमिपालपरायणे
इदं स्तोत्रं महापुण्यं तां संपूज्य च यः पठेत्
भूमिदानकृतं पुण्यं लभते पठनाज्जनः
अम्बुवीचीभूखननात्पापान्मुच्येत स ध्रुवम् 2.8.
परभूश्राद्धजात्पापान्मुच्यते नात्र संशयः
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने
नारद उवाच परभूमौ श्राद्धरूपं कूपे कुपदजं तथा
अम्बुवीचीभूखननबीजत्यागजमेव च
अन्यद्वा पृथिवीजन्यं पापं यत्प्रश्नतः परम्
नारायण उवाच सन्ध्यापूताय विप्राय स यायाद्विष्णुमन्दिरम्
भूमिं च सर्वसस्याढ्या ब्राह्मणाय ददाति यः
ग्रामं भूमिं च धान्यं च यो ददात्याददाति यः
भूमिदानं च तत्काले यः साधुश्चानुमोदते
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः
तत्पुत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः
गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति सः 2.9.
गोष्ठं तडागं निष्कृष्य मार्गं सस्यं ददाति यः
न पञ्चपिण्डमुद्धृत्य स्नाति कूपे परस्य यः
कामी भूमौ च रहसि बीजत्यागं करोति यः
अम्बुवीच्यम्बुखननं यः करोति च मानवः