तस्याः पूजाविधानं चाप्यधश्चोद्धरणक्रमम्
नारायण उवाच उद्दधार महीं हत्वा हिरण्याक्षं रसातलात्
जले तां स्थापयामास पद्मपत्रं यथाऽर्णवे
दृष्ट्वा तदधि देवीं च सकामां कामुको हरिः
कृत्वा रतिकरीं शय्यां मूर्त्तिं च सुमनोहराम् 2.8.
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी
विष्णुस्तदंगसंश्लेषाद् बुबुधे न दिवानिशम्
दधार पूर्वरूपं हि वाराहं चैव लीलया
धूपैर्दीपैश्च नैवद्यैः सिन्दूरैरनुलेपनः
महावराह उवाच मुनिभिर्मनुभिर्देवैः सिद्धैर्वा मानवादिभिः
जलोच्छ्वासाज्जलत्यागगृहारम्भप्रवेशने
तव पूजां करिष्यन्ति संभ्रमेण सुरादयः
वसुधोवाच लीलामात्रेण भगवन्विश्वं च सचराचरम्
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् 2.8.
गोरोचनां चन्दनं च शालग्रामजलं तथा
श्रीभगवानुवाच यास्यन्ति ते कालसूत्रं दिव्यं वर्षशतं त्वयि
इत्येवमुक्त्वा भगवान्विरराम च नारद
पूजां चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः
दद्युर्मूलेन मन्त्रेण नैवेद्यादिकमेव च
नारद उवाच गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम
नारायण उवाच ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः
ॐ ह्रीं श्रीं वां वसुधायै स्वाहा
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् 2.8.
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम्
ध्यानेनानेन सा देवी सर्वैर्वै पूजिता भवेत्
विष्णुरुवाच जयेऽजये जयाधारे जयशीले जयप्रदे
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते
सर्वसस्यालये सर्वसस्याड्ये सर्वसस्यदे
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे