शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह
मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद
दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः
एवं ते कथितं सर्वं पुराणं च तथाऽऽगमम्
नारद उवाच तस्य पाते प्राकृतिकः प्रलयः परिकीर्त्तितः
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुन्धरा
वसुन्धरा तिरोभूता कुत्र वा तत्र तिष्ठति
कथं बभूव सा धन्या मान्या सर्वाश्रया जया
श्रीनारायण उवाच आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च
श्रूयतां वसुधाजन्म सर्वमंगलमंगलम्
अहो केचिद्वदन्तीति मधुकैटभमेदसा
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा
तयोर्जीवनकालेन प्रत्यक्षा च भवेत्स्फुटम्
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु 2.8.
कथयामि च तज्जन्म सार्थकं सर्वसम्मतम्
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम्
स च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च
प्रत्येकं प्रतिलोम्नां च स्थिता कूपेषु सा स्थिरा
आविर्भूता सृष्टिकाले तज्जलात्पर्य्युपस्थिता
प्रतिविश्वेषु वसुधा शैलकाननसंयुता
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता
पातालाः सप्त तदधस्तदूर्ध्वे ब्रह्मलोककः
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि वै 2.8.
नश्वराणि च विश्वानि कृत्रिमाकृत्रिमाणि च
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता
नारद उवाच वराहेण च वाराही सर्वैः सर्वाश्रया सती