बलीवर्दाः सुरभ्यश्च वत्सा नानाविधाः शुभाः
तेषामेकं बलीवर्दं कोटिसिंहसमं बले
कृष्णांघ्रिनखरन्धेभ्यो हंसपङ्क्तिर्मनोहरा
तेषामेकं राजहंसं महाबलपराक्रमम्
वामकर्णस्य विवरात्कृष्णस्य परमात्मनः
तेषामेकं च श्वेताश्वं धर्मार्थं वाहनाय च 1.5.
दक्षकर्णस्य विवरात्पुंसश्च सुरसंसदि
तेषामेकं ददौ कृष्णः प्रकृत्यै परमादरम्
कृष्णो योगेन योगीन्द्रश्चकार रथपञ्चकम्
लक्षयोजनमूर्ध्वे च प्रस्थे च शतयोजनम्
शृङ्गारार्हं भोगवस्तुतल्पासंख्यसमन्वितम्
नानाचित्रविचित्राढथं सद्रत्नकलशोज्ज्वलम्
वह्निशुद्धांशुकैश्चित्रैर्मुक्ताजालैर्विभूषितम्
आरक्तवर्णरत्नेन्द्रसारनिर्माणकृत्रिमैः
ददौ नारायणायैकं तेषां मध्ये द्विजोत्तमः
आविर्बभूव कृष्णस्य गुह्यदेशात्ततः परम् 1.5.
आविर्भूता यतो गुह्यात्तेन ते गुह्यकाः स्मृताः
बभूव कन्यका चैका कुबेरे वामपार्श्वतः
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः
शङ्खचक्रगदापद्मधारिणो वनमालिनः
किरीटिनः कुण्डलिनो रत्नभूषणभूषिताः
चतुर्भुजान्पार्षदांश्च ददौ नारायणाय च
द्विभुजाः श्यामवर्णाश्च जपमालाकरा वराः
दास्यो नियुक्ता दसाश्चैवार्घ्यमादाय यत्नतः
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदा
आविर्बभूवुः कृष्णस्य दक्षनेत्राद्भयङ्कराः 1.5.
दिगम्बरा महाकाया ज्वलदग्निशिखोपमाः
रुरुसंहारकालाख्या असितक्रोधभीषणाः
आविर्बभूव कृष्णस्य वामनेत्राद्भयङ्करः
दिगम्बरो महाकायस्त्रिणेत्रश्चन्द्रशेखरः