महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी
सावित्री वेदमाता च वेदाधिष्ठातृदेवता
सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा
यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम्
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम्
कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवम् 2.7.
तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते
कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम्
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम्
सौभाग्येन च मानेन प्रेम्णा वै गौरवेण च
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया
इत्युक्त्वा जगतां नाथश्चक्रे तच्चेतनां ततः
येषां या याश्च देव्यो वै पूजितास्तस्य सेवया
दिव्यं वर्षसहस्रं च तपस्तप्त्वा हिमालये
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे 2.7.
सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा
शतमन्वन्तरं तप्तं शंकरेण पुरा विभो
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह
मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद
दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः
एवं ते कथितं सर्वं पुराणं च तथाऽऽगमम्
नारद उवाच तस्य पाते प्राकृतिकः प्रलयः परिकीर्त्तितः
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुन्धरा
वसुन्धरा तिरोभूता कुत्र वा तत्र तिष्ठति
कथं बभूव सा धन्या मान्या सर्वाश्रया जया
श्रीनारायण उवाच आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च