वर्षः पञ्चविधो ज्ञेयः कालसंख्यां निबोध मे
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् देवानां च युगो ज्ञेयः कालसंख्याविदां मतः
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम्
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा
ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे
लये प्राकृतिकेऽतीते पाते च ब्रह्मणो मुने
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च
निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् 2.7.
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा
सृष्टीनां च कलानां च ब्रह्माण्डानां च नारद
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट्
स च कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं भवेत्
विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम्
निरुपाधिं निराकारं भक्तानुग्रहविग्रहम्
द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम्
करोति धाता ब्रह्माण्डं ज्ञानात्मा कम लोद्भवः 2.7.
यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान्
महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी
सावित्री वेदमाता च वेदाधिष्ठातृदेवता
सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा
यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम्
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम्
कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवम् 2.7.
तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते
कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम्