एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे
मातृजायावधूनां च जारोपार्जनतत्पराः
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे
तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति
केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः
भ्रातृजायागामिनश्च भविष्यति कलौ युगे
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः 2.7.
परस्परं हिंसकाश्च सर्वे च नरघातिनः
लाक्षालोहरसानां च व्यापारं लवणस्य च
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः
यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः
पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला
अन्नानां निर्णयो नास्ति योनीनां च विशेषतः
एवं कलौ संप्रवृत्ते सर्वे म्लेच्छमया भवे
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति
दीर्घेण करवालेन दीर्घघोटकवाहनः
निर्म्लेच्छां वसुधां कृत्वा चान्तर्द्धानं करिष्यति 2.7.
स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने
कलौ गते च दुर्द्धर्षे संप्रवृत्ते कृते युगे
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि
राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः
विप्रक्षत्त्रविशां वंशा विष्णुयज्ञपरायणाः
श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः
वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः 2.7.
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम्