कर्त्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः
यथा परिचिता लोकास्तथा पुंसश्च बान्धवाः
ब्रह्मक्षत्त्रियविट्शूद्रा जात्या चारविनिर्णयः
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ
सूपकारा भविष्यन्ति धावका वृषवाहकाः
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः
दम्पती प्रीतिहीनौ च गृहिणः सुखवर्जिताः
जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् 2.7.
कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम्
केचित्स्वल्पकुटीरेण नरेण च समन्विताः
अरण्यवासिनः सर्वे जनाश्च करपीडिताः
क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम्
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे
पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव च
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः
भिक्षुवेषधरा धूर्त्ता निन्दन्त्युपहसन्ति च
पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे 2.7.
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी
एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे
मातृजायावधूनां च जारोपार्जनतत्पराः
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे
तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति
केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः
भ्रातृजायागामिनश्च भविष्यति कलौ युगे
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः 2.7.
परस्परं हिंसकाश्च सर्वे च नरघातिनः