पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जंतुषु
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः
न वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम्
इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् 2.6.
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम्
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम्
नारायण उवाच गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया
सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते
सरस्वती नदी सा च तीर्थरूपाऽतिपावनी
पश्चाद्भगीरथानीता महीं भागीरथी शुभा
तत्रैव समये तां च दधार शिरसा शिवः
पद्मा जगाम कलया सा च पद्मावती नदी
ततोऽन्यया सा कलया चालभज्जन्म भारते
पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः
कलेः पञ्चसहस्रं च वर्षं स्थित्वा च भारते 2.7.
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना
शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्
वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम्
हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम्
सत्त्वं च सत्यं धर्मश्च वेदाश्च ग्राम्यदेवताः
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः
एकादशीविहीनाश्च सर्वे धर्मविवर्जिताः
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे 2.7.
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः