भारती यातु कलया सरिद्रूपा च भारतम्
भगीरथेन नीता सा गंगा यास्यति भारतम्
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम्
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे
कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम्
सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् 2.6.
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात्
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः
एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः
असिजीवी मषीजीवी धावकः शूद्रयाजकः
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः
ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः 2.6.
अश्वत्थघातकश्चैव मद्भक्तानां च निन्दकः
मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद
देवद्रव्यापहारी च विप्रद्रव्यापहारकः
महापातकिनश्चैते शूद्राणां शवदाहकाः
लक्ष्मीरुवाच येषां सन्दर्शनस्पर्शात्सद्यः पूता नराधमाः
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात्
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः 2.6.
सौतिरुवाच निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे
श्रीनारायण उवाच पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम्
सारभूतं गोपनीयं न वक्तव्यं खलेषु च
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेद्वरः