भारतं भारतीशापाद्यास्यामि कलया यदि
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात्
कलया तुलसीरूपा धर्मध्वजसुता सती
वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता
गंगा सरस्वतीशापाद्यदि यास्यति भारतम्
गंगाशापेन सा वाणी यदि यास्यति भारतम् 2.6.
तां वाणीं ब्रह्मसदनं गंगां वा शिवमन्दिरम्
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च
उवाच पद्मनाभस्तां प्रभां कृत्वा स्ववक्षसि
नारायण उवाच समतां च करिष्यामि शृणु तत्क्रममेव च
भारती यातु कलया सरिद्रूपा च भारतम्
भगीरथेन नीता सा गंगा यास्यति भारतम्
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम्
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे
कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम्
सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् 2.6.
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात्
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः
एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः
असिजीवी मषीजीवी धावकः शूद्रयाजकः
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः
ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः 2.6.
अश्वत्थघातकश्चैव मद्भक्तानां च निन्दकः
मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद
देवद्रव्यापहारी च विप्रद्रव्यापहारकः