श्रीभगवानुवाच अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः
कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी
भगीरथस्य तपसा तेन नीता सुदुष्करात् 2.6.
मदंशस्य समुद्रस्य जाया जाये ममाज्ञया
गङ्गाशापेन कलया भारतं गच्छ भारति
स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव
शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः
तिस्रो भार्य्यास्त्रयः श्यालास्त्रयो भृत्याश्च बान्धवाः
स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान्
मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया
जनानां च स्थलानां च पुराणां प्राप्तिरेव च
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् 2.6.
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने
पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम्
स निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत्
बह्वीनां च सपत्नीनां नैकत्र श्रेयसी स्थितिः
गच्छ गंगे शिवस्थानं ब्रह्मस्थानं सरस्वति
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी
इत्युक्त्वा जगतां नाथो विरराम च नारद
ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम्
सरस्वत्युवाच सत्स्वामिना परित्यक्ताः कुत्र जीवन्ति काः स्त्रियः ।।2.6.
देहत्यागं करिष्यामि ध्रुवं योगेन भारते
गंगोवाच देहत्यागं करिष्यामि निर्दोषाया वधं लभ
निर्दोषकामिनीत्यागं कुरुते यो जनो भवे
लक्ष्मीरुवाच प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा