गंगायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम्
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम्
गते नारायणे गंगामवोचन्निर्भयं रुषा
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम्
मानहानिं करिष्यामि तवाद्य हरिसन्निधौ 2.6.
इत्येवमुक्त्वा गंगाया जिघृक्षुं केशमुद्यताम्
शशाप वाणी तां पद्मां महाकोपवती सती
विपरीतं यतो दृष्ट्वा किंचिन्नो वक्तुमर्हसि
शापं श्रुत्वा च सा देवी न शशाप चुकोप न
अत्युद्धतां च तां दृष्ट्वा कोपप्रस्फुरितानना
गंगोवाच वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया
यावती योग्यताऽस्याश्च यावती शक्तिरेव वा
स्वबलं यन्मम बलं विज्ञापयितुमर्हतु
अधो मर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः 2.6.
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह
सरस्वतीं करे धृत्वा वासयामास वक्षसि
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च
श्रीभगवानुवाच अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः
कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी
भगीरथस्य तपसा तेन नीता सुदुष्करात् 2.6.
मदंशस्य समुद्रस्य जाया जाये ममाज्ञया
गङ्गाशापेन कलया भारतं गच्छ भारति
स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव
शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी