ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि
भारते कृतपापश्च स्नात्वा तत्रैव लीलया
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा
सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत्
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः
इत्येवं कथितं किंचिद्भारतीगुणकीर्त्तनम् 2.6.
सौतिरुवाच पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम्
नारद उवाच कलया कलहेनैव समभूत्पुण्यदा सरित्
श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम्
तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम्
नारायण उवाच यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते
लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्
विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम्
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता 2.6.
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना
सरस्वत्युवाच धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च
ज्ञातं सौभाग्यमधिकं गंगायां ते गदाधर
गंगायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम्
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम्
गते नारायणे गंगामवोचन्निर्भयं रुषा
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम्
मानहानिं करिष्यामि तवाद्य हरिसन्निधौ 2.6.
इत्येवमुक्त्वा गंगाया जिघृक्षुं केशमुद्यताम्
शशाप वाणी तां पद्मां महाकोपवती सती
विपरीतं यतो दृष्ट्वा किंचिन्नो वक्तुमर्हसि